ब्रुहास्पाती कवचाम गुरु कवचाम
अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः, अनुष्टुप् छन्दः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम् अभीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् । अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ अथ बृहस्पति कवचम् बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ 1 ॥ जिह्वां पातु सुराचार्यः नासं मे वेदपारगः । मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः ॥ 2 ॥ भुजा वङ्गीरसः पातु करौ पातु शुभप्रदः । स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ 3 ॥ नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः । कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ॥ 4 ॥ जानुजङ्घे सुराचार्यः पादौ विश्वात्मकः सदा । अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ 5 ॥ फलशृतिः इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः । सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ॥ इति श्री बृहस्पति कवचम् ॥