मां दुर्गा के मंत्र
रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र | दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ||
देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोखिलस्य | प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ||
जयन्ती मंगला काली भद्रकाली कपालिनी | दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तु ते ||
सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी | त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ||
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे | रूपं देहि जयं देहि यशो देहि द्विषो जहि ||
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि | त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ||
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् | रूपं देहि जयं देहि यशो देहि द्विषो जहि ||
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् | सा घण्टा पातु नो देवि पापेभ्योनः सुतानिव ||
यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तमलं बलं च | सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ||
देव्या यया ततमिदं जग्दात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या | तामम्बिकामखिलदेव महर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ||