श्री नवदुर्गा स्तोत्र
गणेशः हरिद्राभञ्चतुर्वादु हारिद्रवसनंविभुम् । पाशाङ्कुशधरं दैवंमोदकन्दन्तमेव च ॥ देवी शैलपुत्री वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां। वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥ देवी ब्रह्मचारिणी दधाना करपद्माभ्यामक्षमाला कमण्डलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ देवी चन्द्रघण्टेति पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता । प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥ देवी कूष्माण्डा सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥ देवीस्कन्दमाता सिंहासनगता नित्यं पद्माश्रितकरद्वया । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥ देवीकात्यायणी चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना । कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥ देवीकालरात्रि एकवेणी जपाकर्णपूर नग्ना खरास्थिता । लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ वामपादोल्लसल्लोहलताकण्टकभूषणा । वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥ देवीमहागौरी श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः । महागौरी शुभं दद्यान्महादेवप्रमोददा ॥ देवीसिद्धिदात्रि सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥