॥श्रीसरस्वती स्तोत्रम्॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१॥
दोर्भिर्युक्ता चतुर्भिं स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापेरण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥
सुरासुरसेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥३॥
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥४॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥५॥
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥६॥
नित्यानन्दे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शूद्धज्ञाने नमो नमः ॥७॥
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥८॥
मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः । मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥९॥
मनो मणिमहायोगे वागीश्वरि नमो नमः । वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥१०॥
वेदायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥११॥
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः ॥१२॥
योगानार्य उमादेव्यै योगानन्दे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥१४॥
अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्ध्यायै आनन्दायै नमो नमः ॥१५॥
ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥१६॥
पद्मदा पद्मवंशा च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥१८॥
कमलाकरपुष्पा च कामरूपे रूप नमो नमः । कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥
सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥२०॥
इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम् ॥२१॥