सूर्यकवचम स्तोत्रम्
श्रीभैरव उवाच
यो देवदेवो भगवान् भास्करो महसां निधिः । गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ 1 ॥
तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ 2 ॥
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् । महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥ 3 ॥
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् । सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ 4 ॥
रणे राजभये घोरे सर्वोपद्रवनाशनम् । मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ 5 ॥
ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् । धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥ 6 ॥
विष्णुर्नारायणो देवि रणे दैत्याञ्जिष्यति । शङ्करः सर्वलोकेशो वासवोஉपि दिवस्पतिः ॥ 7 ॥
ओषधीशः शशी देवि शिवोஉहं भैरवेश्वरः । मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥ 8 ॥
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि । स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥ 9 ॥
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् । इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥ 10 ॥
परत्र परमा मुक्तिर्देवानामपि दुर्लभा । कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥ 11 ॥
वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः । गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥ 12 ॥
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि । सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥ 13 ॥
अथ सूर्य कवचं
ॐ अम् आम् इम् ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः । उम् ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥ 14 ॥
ऌं ॡम् एम् ऐं पातु नेत्रे ह्रीं ममारुणसारथिः । ॐ औम् अम् अः श्रुती पातु सः सर्वजगदीश्वरः ॥ 15 ॥
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः । चं छं जं झं च नासां मे पातु यार्म् अर्यमा प्रभुः ॥ 16 ॥
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः । तं थं दं धं गलं पातु नं नारायणवल्लभः ॥ 17 ॥
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः । यं रं लं वं भुजौ पातु मूलं सकनायकः ॥ 18 ॥
शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः । लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥ 19 ॥
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः । अम् आम् इम् ईम् उम् ऊं ऋं ॠं नाभिं पातु तमोपहः ॥ 20 ॥
ऌं ॡम् एम् ऐम् ॐ औम् अम् अः लिङ्गं मेஉव्याद् ग्रहेश्वरः । कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥ 21 ॥
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु । पं फं बं भं यं रं लं वं जङ्घे मेஉव्याद् विभाकरः ॥ 22 ॥
शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः । ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥ 23 ॥
सोमः पूर्वे च मां पातु भौमोஉग्नौ मां सदावतु । बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ॥ 24 ॥
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः । उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥ 25 ॥
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः । प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥ 26 ॥
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः । सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥ 27 ॥
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे । सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥ 28 ॥
ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरोஉवतान्मां भयाद् ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोஉवतात् सर्वतः । सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात् पायान्मां कुलनायकोஉपि सविता ॐ ह्रीं ह सौः सर्वदा ॥ 29 ॥
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् । अम् अम् आं विविवीं महामयभयं मां पातु मार्तण्डको मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥ 30॥
अथ फलशृतिः
इति श्रीकवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥ 31 ॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् । गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥ 32 ॥
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये । अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ॥ 33 ॥
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि । कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥ 34 ॥
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् । सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥ 35 ॥
रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति । राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥ 36 ॥
कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी । शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥ 37 ॥
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ 38 ॥
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये । यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥ 39 ॥
महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति । तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥ 40 ॥
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् । तस्य सद्यो महादेवि सविता वरदो भवेत् ॥ 41 ॥
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् । तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥ 42 ॥
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे । महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥ 43 ॥
निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् । लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥ 44 ॥
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये । इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥ 45 ॥
इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥