आच्यता अष्टकोम
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ॥ १ ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् । इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे ॥ २ ॥ विष्णवे जिष्णवे शंकने चक्रिणे रुक्मिणी राहिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिने वंशिने ते नमः ॥ ३ ॥ कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥ राक्षस क्षोभितः सीतया शोभितो दंडकारण्यभू पुण्यताकारणः । लक्ष्मणोनान्वितो वानरैः सेवितो अगस्त्य संपूजितो राघवः पातु माम् ॥ ५ ॥ धेनुकारिष्टकाஉनिष्टिकृद्-द्वेषिहा केशिहा कंसहृद्-वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो बालहोपालकः पातु मां सर्वदा ॥ ६ ॥ बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् । वान्यया मालया शोभितोरः स्थलं लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ ७ ॥ कुंचितैः कुंतलै भ्राजमानाननं रत्नमौलिं लसत्-कुंडलं गंडयोः । हारकेयूरकं कंकण प्रोज्ज्वलं किंकिणी मंजुलं श्यामलं तं भजे ॥ ८ ॥ अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुंदरं कर्तृ विश्वंभरः तस्य वश्यो हरि र्जायते सत्वरम् ॥