पीताम्बर: पीतवपु: किरीटी, चतुर्भुजो देवगुरु: प्रशान्त: । दधाति दण्डं च कमण्डलुं च, तथाक्षसूत्रं वरदोsस्तु मह्यम ।।1।। नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नम: । नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग ।।2।। सदानन्द नमस्तेस्तु नम: पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ।।3।। नमोsद्वितीयरूपाय लम्बकूर्चाय ते नम: । नम: प्रह्रष्टनेत्राय विप्राणां पतये नम: ।।4।। नमो भार्गवशिष्याय विपन्नहितकारक: । नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ।।5।। विषमस्थस्तथा नृणां सर्वकष्टप्रणाशनम । प्रत्यहं तु पठेद्यो वै तस्य कामफलप्रदम ।।6।। (इति मन्त्रमहार्णवे बृहस्पतिस्तोत्रम)