श्री केतु कवचम्
ध्यानं केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ 1 ॥ । अथ केतु कवचम् । चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ 2 ॥ घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः । पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ 3 ॥ हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः । सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ 4 ॥ ऊरू पातु महाशीर्षो जानुनी मेஉतिकोपनः । पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥ 5 ॥ फलश्रुतिः य इदं कवचं दिव्यं सर्वरोगविनाशनम् । सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥ 6 ॥ ॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥